
காஞ்சி மகா பெரியவா அனுஷம்
ஜகத்குரு ஸ்ரீ சந்திரசேகரேந்திர சரஸ்வதி மஹாஸ்வாமிகள், அன்புடன் மகா பெரியவா என்றும் பரமாசாரியார் என்றும் அழைக்கப்படுபவர், காஞ்சி காமகோடி பீடத்தின் 68-ஆவது ஆசாரியர். அவர் 1894 மே 20 அன்று விழுப்புரத்தில், தமிழ் மாதமான வைகாசியில் அனுஷம் நட்சத்திரத்தில் அவதரித்து, சுவாமிநாதன் எனப் பெயரிடப்பட்டார். 1907-இல், பதின்மூன்றாம் வயதில், பீடாதிபதியானார்.
ஏறக்குறைய தொண்ணூறு ஆண்டுகள் அவர் இந்தியா முழுவதும் நடந்து சென்று வேதங்களையும் சனாதன தர்மத்தையும் எளிய பக்தியையும் போதித்தார்; பக்தர்கள் அவரை நடமாடும் தெய்வம் என்று அழைத்தனர். 1994 ஜனவரி 8 அன்று காஞ்சிபுரத்தில் சித்தி அடைந்தார்.
அவர் அனுஷம் நட்சத்திரத்தில் அவதரித்ததால், பக்தர்கள் ஒவ்வொரு மாதமும் அனுஷம் நாளில் கூடி அவர் நினைவாகப் பூஜை, வேத பாராயணம், பஜனை செய்கின்றனர்; வைகாசி அனுஷம் அவருடைய ஜயந்தி. கீழே உள்ள தேதிகள் உங்கள் நகரத்துக்கானவை; அந்த நாளின் பஞ்சாங்கத்தைத் திறக்க ஒரு தேதியைத் தொடவும்.
श्रीचन्द्रशेखरेन्द्रसरस्वत्यष्टोत्तरशतनामावलिः (108 திருநாமங்கள்)
- ॐ श्रीकाञ्चीकामकोटिपीठाधीश्वराय नमः ।
- ॐ श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुभ्यो नमः ।
- ॐ संन्यासाश्रमशिखराय नमः ।
- ॐ काषायदण्डधारिणे नमः ।
- ॐ सर्वपीडापहारिणे नमः ।
- ॐ स्वामिनाथगुरवे नमः ।
- ॐ करुणासागराय नमः ।
- ॐ जगदाकर्षणशक्तिमते नमः ।
- ॐ सर्वसराचरहृदयस्थाय नमः ।
- ॐ भक्तपरिपालकश्रेष्ठाय नमः ।
- ॐ धर्मपरिपालकाय नमः ।
- ॐ श्रीजयेन्द्रसरस्वत्याचार्याय नमः ।
- ॐ श्रीविजयेन्द्रसरस्वतीपूजिताय नमः ।
- ॐ शिवशक्तिस्वरूपाय नमः ।
- ॐ भक्तजनप्रियाय नमः ।
- ॐ ब्रह्मविष्णुशिवैक्यस्वरूपाय नमः ।
- ॐ काञ्चीक्षेत्रवासाय नमः ।
- ॐ कैलाशशिखरवासाय नमः ।
- ॐ स्वधर्मपरिपोषकाय नमः ।
- ॐ चातुर्वर्ण्यसंरक्षकाय नमः ।
- ॐ लोकरक्षणसङ्कल्पाय नमः ।
- ॐ ब्रह्मनिष्ठापराय नमः ।
- ॐ सर्वपापहराय नमः ।
- ॐ धर्मरक्षणसन्तुष्टाय नमः ।
- ॐ भक्तार्पितधनस्वीकर्त्रे नमः ।
- ॐ सर्वोपनिषत्सारज्ञाय नमः ।
- ॐ सर्वशास्त्रगम्याय नमः ।
- ॐ सर्वलोकपितामहाय नमः ।
- ॐ भक्ताभीष्टप्रदायकाय नमः ।
- ॐ ब्रह्मण्यपोषकाय नमः ।
- ॐ नानविधपुष्पार्चितपदाय नमः ।
- ॐ रुद्राक्षकिरीटधारिणे नमः ।
- ॐ भस्मोद्धूलितविग्रहाय नमः ।
- ॐ सर्वज्ञाय नमः ।
- ॐ सर्वचराचरव्यापकाय नमः ।
- ॐ अनेकशिष्यपरिपालकाय नमः ।
- ॐ मनश्चाञ्चल्यनिवर्तकाय नमः ।
- ॐ अभयहस्ताय नमः ।
- ॐ भयापहाय नमः ।
- ॐ यज्ञपुरुषाय नमः ।
- ॐ यज्ञानुष्ठानरुचिप्रदाय नमः ।
- ॐ यज्ञसम्पन्नाय नमः ।
- ॐ यज्ञसहायकाय नमः ।
- ॐ यज्ञफलदाय नमः ।
- ॐ यज्ञप्रियाय नमः ।
- ॐ उपमानरहिताय नमः ।
- ॐ स्फटिकतुलसीरुद्राक्षहारधारिणे नमः ।
- ॐ चातुर्वर्ण्यसमदृष्टये नमः ।
- ॐ ऋग्य़जुस्सामाथर्वणचतुर्वेदसंरक्षकाय नमः ।
- ॐ दक्षिणामूर्तिस्वरूपाय नमः ।
- ॐ जाग्रत्स्वप्नसुषुप्त्यवस्थातीताय नमः ।
- ॐ कोटिसूर्यतुल्यतेजोमयशरीराय नमः ।
- ॐ साधुसङ्घसंरक्षकाय नमः ।
- ॐ अश्वगजगोपूजानिर्वर्तकाय नमः ।
- ॐ गुरुपादुकापूजाधुरन्धराय नमः ।
- ॐ कनकाभिषिक्ताय नमः ।
- ॐ स्वर्णबिल्वदलपूजिताय नमः ।
- ॐ सर्वजीवमोक्षदाय नमः ।
- ॐ मूकवाग्दाननिपुणाय नमः ।
- ॐ नेत्रदीक्षादानाय नमः ।
- ॐ द्वादशलिङ्गस्थापकाय नमः ।
- ॐ गानरसज्ञाय नमः ।
- ॐ ब्रह्मज्ञानोपदेशकाय नमः ।
- ॐ सकलकलासिद्धिदाय नमः ।
- ॐ चातुर्वर्ण्यपूजिताय नमः ।
- ॐ अनेकभाषासम्भाषणकोविदाय नमः ।
- ॐ अष्टसिद्धिप्रदायकाय नमः ।
- ॐ श्रीशारदामठसुस्थिताय नमः ।
- ॐ नित्यान्नदानसुप्रीताय नमः ।
- ॐ प्रार्थनामात्रसुलभाय नमः ।
- ॐ पादयात्राप्रियाय नमः ।
- ॐ नानाविधमतपण्डिताय नमः ।
- ॐ श्रुतिस्मृतिपुराणज्ञाय नमः ।
- ॐ देवयक्षकिन्नरकिंपुरुषपूज्याय नमः ।
- ॐ श्रवणानन्दकरकीर्तये नमः ।
- ॐ दर्शनानन्दाय नमः ।
- ॐ अद्वैतानन्दभरिताय नमः ।
- ॐ अव्याजकरुणामूर्तये नमः ।
- ॐ शैववैष्णवादिमान्याय नमः ।
- ॐ शङ्कराचार्याय नमः ।
- ॐ दण्डकमण्डलुहस्ताय नमः ।
- ॐ वीणामृदङ्गादिसकलवाद्यनादस्वरूपाय नमः ।
- ॐ रामकथारसिकाय नमः ।
- ॐ वेदवेदाङ्गागमादि सकलकलासदःप्रवर्तकाय नमः ।
- ॐ हृदयगुहाशयाय नमः ।
- ॐ शतरुद्रीयवर्णितस्वरूपाय नमः ।
- ॐ केदारेश्वरनाथाय नमः ।
- ॐ अविद्यानाशकाय नमः ।
- ॐ निष्कामकर्मोपदेशकाय नमः ।
- ॐ लघुभक्तिमार्गोपदेशकाय नमः ।
- ॐ लिङ्गस्वरूपाय नमः ।
- ॐ सालग्रामसूक्ष्मस्वरूपाय नमः ।
- ॐ कालट्यांशङ्करकीर्तिस्तम्भनिर्माणकर्त्रे नमः ।
- ॐ जितेन्द्रियाय नमः ।
- ॐ शरणागतवत्सलाय नमः ।
- ॐ श्रीशैलशिखरवासाय नमः ।
- ॐ डमरुकनादविनोदाय नमः ।
- ॐ वृषभारूढाय नमः ।
- ॐ दुर्मतनाशकाय नमः ।
- ॐ आभिचारिकदोषहर्त्रे नमः ।
- ॐ मिताहाराय नमः ।
- ॐ मृत्युविमोचनशक्ताय नमः ।
- ॐ श्रीचक्रार्चनतत्पराय नमः ।
- ॐ दासानुग्रहकारकाय नमः ।
- ॐ अनुराधानक्षत्रजाताय नमः ।
- ॐ सर्वलोकख्यातशीलाय नमः ।
- ॐ वेङ्कटेश्वरचरणपद्मषट्पदाय नमः ।
- ॐ श्रीत्रिपुरसुन्दरीसमेतश्रीचन्द्रमौलीश्वरपूजप्रियाय नमः ॥
दिव्यज्ञानस्वरूपाय वराभयकराय च ॥ १॥
divyajñānasvarūpāya varābhayakarāya ca || 1||
सर्वसौभाग्यदात्रे च श्रीकाञ्चीगुरवे नमः ॥ ९॥
sarvasaubhāgyadātre ca śrīkāñcīgurave namaḥ || 9||
இன்றைய பஞ்சாங்கம், திருவிழாக்கள், முகூர்த்தங்கள் மற்றும் பலவற்றைப் பாருங்கள்
🕉 பஞ்சாங்க அரட்டையைத் திற