mypanchang.com 📖 Articles
ॐ

उपाकर्मनिर्णयः: उपाकर्मदिनस्य शास्त्रीयो निर्णयः

प्रतिवेदं प्रतिसूत्रं च कस्मिन्नपि वर्षे उपाकर्मदिनं कथं निर्णीयते: नियमाः, तन्मूलवचनानि च

🌐 अन्यभाषासु: English · हिंदी (विस्तरेण व्याख्या, प्रमाणविमर्शः च)
📅 स्वनगरस्य कस्यापि वर्षस्य तिथयः: त्रयो वेदाः · यजुः · ऋक् · साम · USA: २०२६ · २०२७

© प्रतिलिप्यधिकारः (Copyright Notice)

© २००६–2026 पण्डित-महेश-शास्त्री mypanchang.com च। सर्वेऽधिकाराः सुरक्षिताः। अस्य लेखस्य पाठः, अनुवादाः, सङ्कलनं, विन्यासः, सारण्यः, निर्णयाश्च प्रतिलिप्यधिकारेण रक्षिताः। लेखकस्य पूर्वलिखितानुमतिं विना अस्य कोऽपि भागः मुद्रिते वैद्युते वा केनापि माध्यमेन न प्रतिलेख्यः, न पुनःप्रकाश्यः, नानुवाद्यः, न परिवर्त्यः, न वितरणीयः। अनधिकृतप्रतिलिपौ विधिसम्मता कार्यवाही भविष्यति।

© 2006–2026 Pundit Mahesh Shastriji and mypanchang.com. All rights reserved. This article, including its text, translations, compilation, arrangement, tables and rulings, is protected by copyright. No part of it may be copied, reproduced, republished, translated, adapted, or distributed in any form or medium, printed or electronic, without the prior written permission of the author. Unauthorized copying will be pursued with legal action.

उपाकर्मनिर्णयः

ऋग्यजुःसामवेदिनाम् उपाकर्मदिननिर्णयः, दोषविकल्पविचारसहितः

पण्डित-महेश-शास्त्री, पञ्चाङ्गकर्ता सिद्धान्ती च, mypanchang.com

सङ्क्षेपः

अस्मिन् निबन्धे धर्मशास्त्रस्य मूलग्रन्थेभ्यः प्रतिवर्षम् उपाकर्मदिनस्य (अध्यायोपाकरणस्य) निर्णयनियमाः निरूप्यन्ते, ऋग्वेदिनां, शुक्लकृष्णयजुर्वेदिनां (काण्व-माध्यन्दिन-आपस्तम्ब-बौधायन-हिरण्यकेशिनां), सामवेदिनां च। तत्र (१) प्रतिवेदं मुख्यकालः, तिथेः नक्षत्रस्य वा दिनद्वयव्याप्तौ निर्णयश्च; (२) सर्वान् कर्तॄन् बाधमानाः दोषाः (ग्रहणं, संक्रान्तिः, अधिमासः), प्रथमोपाकर्म एव बाधमानौ च गुरुशुक्रास्तदोषौ; (३) सूत्रानुसारं विकल्पकालानां क्रमः; (४) सर्वेषु कालेषु दुष्टेषु मुख्यकाले शान्तिपूर्वकम् अनुष्ठानम् इति। वसिष्ठवचनप्रामाण्यात्, कालदोषेण मुख्यकाले बाधिते विकल्पकालः सर्वेषां कर्तॄणां सर्वदोषरहित एव ग्राह्यः इति सिद्धान्तः स्वीक्रियते।

अत्र प्रथमो भागः (नियमाः) संस्कृतेन दीयते। प्रमाणानां विस्तरेण व्याख्या, पाठभेदाः, सिद्धान्तिनो निर्णयाश्च आङ्ग्ल-हिन्दी-लेखयोः द्वितीयतृतीयभागयोः द्रष्टव्याः।

सङ्केताः

NS निर्णयसिन्धुः · DS धर्मसिन्धुः · SMP स्मृतिमुक्ताफलम् (वर्णाश्रमधर्मकाण्डम्) · TN तिथिनिर्णयः · SK स्मृतिकौस्तुभः · AG आह्निकग्रन्थः (श्री-अहोबिल-मठः) · VPV व्रतपर्वविवेकः · ĀpGS आपस्तम्बगृह्यसूत्रम्। पृ. = पृष्ठम्।

निर्णयक्रमः

यत्र प्रमाणानि एकस्मिन् विषये प्रवर्तन्ते, तत्र अयं बलक्रमः:

१. स्वसूत्रम्: "उपाकर्म स्वगृह्योक्ते काले" (अत्रिः, SMP पृ.१३२)। अतः स्वसूत्रोक्तं स्वशाखायां बलवत्, सामान्यवचनं तन्न बाधते।

२. स्मृतिवचनानि: मनु-वसिष्ठ-व्यास-गार्ग्य-बृहस्पति-कश्यप-कात्यायनादीनाम्, यथा निबन्धेषु धृतानि व्यवस्थापितानि च।

३. निबन्धाः (NS, DS, SMP, TN, SK), यत्र वचनानां व्याख्या व्यवस्था च (शाखानुसारं देशानुसारं वा) क्रियते।

४. शिष्टाचारः (AG), यत्र ग्रन्थाः तूष्णीं विप्रतिपन्ना वा।

५. सिद्धान्तिनो निर्णयः, यत्र प्रमाणानां विरोधः तिष्ठत्येव; ते सर्वे निर्णयाः सहेतुकाः आङ्ग्ललेखस्य तृतीयभागे सूचिताः।

प्रथमो भागः: नियमाः

एभिः नियमैः कस्मिन्नपि वर्षे कस्मिन्नपि नगरे उपाकर्मदिनं निर्णीयते। अस्य जालस्थानस्य उपाकर्मपृष्ठानि एतान् नियमान् स्वयमेव प्रयुञ्जते। प्रतिनियमं तन्मूलभूतानि वचनानि उद्धृतानि।

नियमः १. का पौर्णमासी श्रावणी

सिंहस्थे सवितरि या अमावास्या, तदन्तस्य चान्द्रमासस्य मध्यवर्तिनी पौर्णमासी श्रावणी, श्रवणनक्षत्रयोगो भवतु मा वा। उपाकर्म चान्द्रमानेन निर्णीयते।

▶ SMP पृ.१३२, आपस्तम्बविषये

तदेवं सवितरि सिंहस्थे याऽमावास्या तदन्ते चान्द्रमसे मासे या मध्यवर्तिनी पौर्णमासी सा श्रावणी । श्रवणयोगस्तु भवतु वा मा वाभूत् ।

▶ वैदिकसार्वभौमः, गृह्यरत्नम् (AG §३२, पृ.३५)

सिंहदर्शात् पूर्वा पूर्णिमा श्रावणी । तस्याम् उपाकर्म तैत्तिरीयकाः कुर्युः ।

नियमः २. प्रतिवेदं मुख्यकालः

यजुर्वेदिनाम्: श्रावणी पौर्णमासी। ऋग्वेदिनाम्: श्रावणशुक्ले श्रवणनक्षत्रदिनम्। सामवेदिनाम्: भाद्रपदशुक्ले हस्तनक्षत्रम्। अथर्ववेदिनाम्: श्रावणी भाद्रपदी वा पौर्णमासी।

▶ गोभिलः (NS पृ.१५१; SMP पृ.१३५)

पर्वण्यौदयिके कुर्युः श्रावणे तैत्तिरीयकाः । बह्वृचाः श्रवणर्क्षे तु हस्तर्क्षे सामवेदिनः ॥

▶ तिथिदर्पणः (SMP पृ.१३६); पृथ्वीचन्द्रः (NS पृ.१४९)

औदयिके सङ्गवस्पर्शे श्रुतौ पर्वणि चार्कभे । कुर्युर्नभस्युपाकर्म ऋग्यजुस्सामगाः क्रमात् ॥

नियमः ३. तिथेः नक्षत्रस्य वा दिनद्वयव्याप्तौ

यजुर्वेदिनाम्: पौर्णमासी उदयव्यापिनी स्यात्। द्वितीयदिने सा तदैव ग्राह्या यदि सङ्गवात् परं, सूर्योदयात् षण्मुहूर्तान् (द्वादश घटिकाः) यावत् तिष्ठति; अन्यथा पूर्वदिनम्। अयमेव षण्मुहूर्तनियमः सर्वासु विकल्पपौर्णमासीषु, भाद्रपद्याम् आषाढ्यां च (DS पृ.९१: एतेषामपि खण्डतिथौ पूर्ववत् निर्णयः इति भावः; निगमः: "श्रावण्यां प्रौष्ठपद्यां वा … षण्मुहूर्तकैः"); गुरुपूर्णिमोत्सवस्य त्रिमुहूर्तनियमः उपाकर्मणि न प्रवर्तते। यदि पौर्णमासी सूर्योदयात् द्वादशपञ्चदशघटिकयोः मध्ये समाप्यते, तर्हि उपाकर्म गायत्रीजपश्च तस्मिन्नेव दिने; अन्यथा जपः परेद्युः। केचिद् आचार्याः सङ्गवस्पृशम् अपि पौर्णमासीं गृह्णन्ति; यजुःपृष्ठे सा विकल्पत्वेन दर्शिता।

▶ गार्ग्यः (NS पृ.१४९; SMP पृ.१३८; AG §३२, पृ.३७)

श्रावणी पौर्णमासी तु सङ्गवात् परतो यदि । तदैवौदयिकी ग्राह्या नान्यदौदयिकी भवेत् ॥

▶ स्मृत्यन्तरम् (SMP पृ.१३७; AG §३२, पृ.३७–३८)

सन्धिः सङ्गवतः पश्चादर्वाङ्मध्यन्दिनाद्यदि । तत्रैवोपाकृतिं कुर्यात् … सन्धिः सङ्गवतः प्राक् चेत् पूर्वस्मिन् पर्वणि क्रिया । श्वोभूते समिदाधानमेष श्रावणिको विधिः ॥

ऋग्वेदिनाम्: द्वितीयदिने श्रवणं सूर्योदयात् षड् घटिकाः व्याप्नोति चेत् तद्दिनं ग्राह्यम् (तदा धनिष्ठायोगः प्रशस्तः); उत्तराषाढायुक्तं श्रवणं वर्ज्यम्।

▶ व्यासः, हेमाद्रिणा उद्धृतः (NS पृ.१४५)

धनिष्ठासंयुतं कुर्याच्छ्रावणं कर्म यद्भवेत् । … श्रवणेन तु यत्कर्म उत्तराषाढसंयुतम् । संवत्सरकृतोऽध्यायस्तत्क्षणादेव नश्यति ॥

सामवेदिनाम्: अपराह्णव्यापी हस्तः। दिनद्वयेऽपि कृत्स्नम् एकदेशेन वा अपराह्णं स्पृशति चेत् परदिनम्। केवलं पूर्वदिनस्य अपराह्णं स्पृशति चेत् पूर्वदिनम्। केवलं परदिनस्य, न कस्यापि वा, चेत् परदिनम्।

नियमः ४. ग्रहणं संक्रान्तिश्च सर्वान् बाधेते

दिनात् पूर्वस्याः अर्धरात्रात् दिनान्तस्य अर्धरात्रं यावत् (अर्धरात्रं नाम सूर्यास्तस्य परसूर्योदयस्य च मध्यम्) यदि ग्रहणं संक्रान्तिर्वा भवति, तर्हि तस्मिन् दिने उपाकर्म न क्रियते, द्वितीयादिकर्तृभिः प्रथमकर्तृभिश्च, तिथिं नक्षत्रं वा अस्पृशदपि। ग्रहणं स्पर्शात् प्रभृति गण्यते। उपच्छायाग्रहणं धर्मशास्त्रे न गण्यते।

▶ वृद्धमनुः कात्यायनश्च (TN पृ.१५; NS पृ.१४६)

अर्धरात्रादधस्ताच्चेत्संक्रान्तिर्ग्रहणं यदा । उपाकर्म न कुर्वीत परतश्चेन्न दोषकृत् ॥

▶ हेमाद्रिः (NS पृ.१४६)

उपाकर्म न कुर्वन्ति क्रमात्सामर्ग्यजुर्विदः । ग्रहसंक्रान्तियुक्तेषु हस्तश्रवणपर्वसु ॥

▶ गार्ग्यः, मदनरत्न-हेमाद्रिभ्याम् उद्धृतः (NS पृ.१४९)

अथ चेद्दोषसंयुक्ते पर्वणि स्यादुपाक्रिया । दुःखशोकामयग्रस्ता राष्ट्रे तस्मिन् द्विजातयः ॥

नियमः ५. अधिमासः

अधिकमासे उपाकर्म न क्रियते; मासवृद्धौ निजमासे क्रियते।

▶ ज्योतिःपराशरः (NS पृ.१४८)

उपाकर्म तथोत्सर्गः … मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम् ॥

नियमः ६. गुरुशुक्रास्तं प्रथमोपाकर्म एव बाधते, मुख्यकाले

उपनयनानन्तरं प्रथमम् उपाकर्म गुरौ शुक्रे वा अस्तंगते न क्रियते। द्वितीयादिकर्ता तु अस्तकालेऽपि मुख्यकाले उपाकर्म करोति।

▶ कश्यपः (NS पृ.१४८)

गुरुभार्गवयोर्मौढ्ये बाल्ये वा वार्धकेऽपि वा । तथाधिमाससंसर्पमलमासादिषु द्विजे ॥ प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृत् ॥

▶ TN पृ.१५

एतच्च शुक्रास्तादावपि कर्तव्यम् । प्रथमारम्भस्तु तत्र न भवति ।

▶ DS पृ.९२

द्वितीयाद्युपाकर्म त्वस्तादावपि कार्यं । मलमासे तु द्वितीयाद्यपि न कार्यम् ।

नियमः ७. विकल्पकालः सर्वेषां सर्वदोषरहित एव

यदा ग्रहणेन संक्रान्त्या वा मुख्यकालो दूषितः, तदा विकल्पकालः ग्रहण-संक्रान्ति-गुरुशुक्रास्त-रहित एव ग्राह्यः, द्वितीयादिकर्तृणां प्रथमकर्तृणां च। यस्य प्रथमकर्तुः मुख्यकाले केवलम् अस्तदोषः, सोऽपि एतादृशम् एव शुद्धं विकल्पकालम् अन्विष्यति।

▶ वसिष्ठः (SMP पृ.१३८–१३९)

मलमासे निपतिते सूतके मृतकेऽपि वा । ग्रहणे सङ्क्रमे वाऽपि मौढ्येऽपि गुरुशुक्रयोः ॥ प्रौष्ठपद्यामथाषाढ्यामुपाकरणमिष्यते । प्रौष्ठपद्यामुपाकुर्याच्छ्रावणं दूषितं यदि ॥ आषाढे वाऽपि कर्तव्यं प्रौष्ठपद्याश्च दूषणे । मासत्रयेऽपि दोषश्चेत् श्रावण्यामेव कारयेत् ॥

नियमः ८. वेदसूत्रानुसारं विकल्पक्रमः

वेदः / सूत्रम्

क्रमः

काण्वाः माध्यन्दिनाश्च (शुक्लयजुः)

श्रावणी पौर्णमासी → हस्तयुता श्रावणशुक्लपञ्चमी → भाद्रपदी पौर्णमासी → भाद्रपदशुक्लपञ्चमी

आपस्तम्बाः (कृष्णयजुः)

श्रावणी पौर्णमासी → भाद्रपदी पौर्णमासी → आषाढी पौर्णमासी

बौधायनाः (कृष्णयजुः)

श्रावणी पौर्णमासी → भाद्रपदी पौर्णमासी → आषाढी पौर्णमासी

हिरण्यकेशिनः (कृष्णयजुः)

श्रावणी पौर्णमासी → श्रावणे हस्तः → भाद्रपदे हस्तः (उदयव्यापी सङ्गवस्पर्शी हस्तः, अन्यथा पूर्वदिनम्); पञ्चमी न गृह्यते

ऋग्वेदिनः

श्रवणनक्षत्रम् → पञ्चमी → हस्तः (प्रत्येकं सूर्योदयात् षड्घटिकाव्यापी), श्रावणे, ततः तथैव भाद्रपदे

सामवेदिनः

भाद्रपदशुक्लहस्तः → श्रावणहस्तः → भाद्रपदपञ्चमी → श्रावणपञ्चमी; कर्कस्थे सूर्ये श्रावणहस्तः अन्तिमोपायत्वेनैव; केचिद् आचार्याः श्रावण्याम् उपाकर्म कृत्वा अध्ययनं भाद्रपदहस्ते आरभन्ते

▶ NS पृ.१५१

श्रावण्यामपि ग्रहणादिदुष्टायां कातीयभिन्नैः प्रौष्ठपद्यां कार्यम् । तैस्तु श्रावणपञ्चम्याम् … आपस्तम्बैराथर्वणैश्च प्रौष्ठपद्याम् ॥ यत्तु बौधायनः 'श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्य' इत्यूचे, तत् प्रौष्ठपद्यामपि दोषे आषाढ्यां कार्यमित्येवमर्थम् । तच्छाखीयविषयं वा ॥

▶ स्मृतिमहार्णवः, हेमाद्रिणा उद्धृतः (NS पृ.१५१)

संक्रान्तिर्ग्रहणं वापि पौर्णमास्यां यदा भवेत् । उपाकृतिस्तु पञ्चम्यां कार्या वाजसनेयिभिः ॥

▶ DS पृ.९०–९१

हिरण्यकेशीनां श्रावणी पौर्णमासी मुख्यकालः तदभावे श्रावणहस्तः

▶ याज्ञवल्क्यः (SMP पृ.१३३–१३४)

अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥

नियमः ९. शुद्धकालाभावे मुख्यकाले शान्तिपूर्वकम्

विकल्पक्रमे सर्वेषु दिनेषु दूषितेषु सर्वे मुख्यकाले एव पूर्वं शान्तिं (परिहारं) कृत्वा उपाकर्म कुर्वन्ति। प्रथमकर्तुः अपि यदा अस्तं सर्वान् विकल्पकालान् व्याप्नोति, तदा एवमेव।

▶ व्यासः (SMP पृ.१३९)

कालत्रयेऽपि दोषे तु श्रावण्यामेव कारयेत् । पौर्णमास्यास्तु नित्यत्वादापस्तम्बस्य शासनात् ॥

▶ बृहस्पतिः, व्याख्यासहितः (SMP पृ.१४१; AG §३४, पृ.४०–४१)

श्रावणप्रौष्ठपदाषाढेष्वेकस्मिन् दोषरहिते प्रथमोपाकृतिः कर्तव्या । त्रिष्वपि दुष्टेषु श्रावणमासे शान्तिपूर्विका कर्तव्या ॥

शान्तिमन्त्राः (पद्धतिः, SMP पृ.१४२): गुरोः अस्ते बृहस्पते अति यत्; शुक्रस्य अस्ते प्र वः शुक्राय; मलमासे आप्यायस्व; सूर्योपरागे संक्रान्तौ च चित्रं देवानाम्, उदु त्यं जातवेदसम्, सूर्यो देवीमुषसम्, उद्वयं तमसस्परि, आ सत्येन, देवो वः सविता उत्पुनातु; सोमोपरागे सोमो धेनुम् इति षड्भिः, नवो नवः इति च। पूर्वं शान्तिहोमः, ततः उपाकरणाङ्गहोमः।

नियमः १०. कालः

दिननिर्णयः पूर्वाह्णेन। ऋग्यजुषां तिथिः नक्षत्रं वा दिनस्य पूर्वाह्णं (सूर्योदयात् सङ्गवान्तं, नियमः ३) व्याप्नुयात्; सामगानां तु अपराह्णेन दिननिर्णयः (अपराह्णव्यापी हस्तः, नियमः ३)।

तस्मिन् दिने उत्सर्जनं, तद्धोमः, तदङ्गानि च पूर्वाह्णे; उपाकर्म तु अपराह्णे। उभयत्र दर्भमयान् ऋषीन् कृत्वा पूजयेत्।

▶ TN पृ.१६

एतच्च सामगैरपराह्णे कार्यम् । इतरैः पूर्वाह्णे ।

▶ प्रचेताः (NS पृ.१४८)

भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्ण एव तु ।

पूर्वाह्णेन दिननिर्णयः, अपराह्णे उपाकर्म: कथम्

उपाकर्म न एकं कर्म, अपि तु दिनव्यापिनां कर्मणां परिसमाप्तिः। तद्दिनस्य कर्म पूर्वाह्णे आरभ्यते, अतः पूर्वाह्णव्यापिन्या तिथ्या नक्षत्रेण वा दिनं निर्णीयते। ततः प्रातःकालः ग्रन्थोक्तैः पूर्वाङ्गकर्मभिः क्रमेण व्याप्यते:

• स्नानं नित्यकर्म च;

• पूर्वाध्ययनस्य उत्सर्जनं सहोमम् (SMP पृ.१३५; NS पृ.१५३);

• दर्भमयानाम् ऋषीणां पूजा (कार्ष्णाजिनिः NS पृ.१५३; SMP पृ.१३५);

• तैत्तिरीयाणां प्रजापतिप्रमुखानां काण्डर्षीणां तिलोदकेन एकैकस्य त्रिस्त्रिः तर्पणम् (कपर्दी, SMP पृ.१४६);

• मन्त्रेण नवयज्ञोपवीत-मेखला-वस्त्र-धारणम् (भरद्वाजः, शाण्डिल्यः, स्मृतिसारः, SMP पृ.१४४–१४६), ब्रह्मचारिणां वपनं च (SMP पृ.१४६);

• दोषे सति उपाकर्महोमात् पूर्वं शान्तिहोमः (पद्धतिः, SMP पृ.१४२)।

एतेषाम् अनन्तरम् एव अपराह्णे उपाकर्म, उपाकरणहोमः, वेदाध्ययनस्य पुनरारम्भश्च। पूर्वाह्णः कतमद् दिनम् इति निर्णयति; अपराह्णः तस्मिन् दिने कदा उपाकर्म इति।

▶ SMP पृ.१३५

अध्यायानामुपाकर्म कुर्यात्कालेऽपराह्णिके । पूर्वाह्णे तु विसर्गः स्यादिति वेदविदो विदुः ॥ उपाकर्मणि चोत्सर्गे यथाकालं समेत्य च । ऋषीन् दर्भमयान् कृत्वा पूजयेत्तान् द्विजस्ततः ॥

▶ गोभिलः, छन्दोगविषये (SMP पृ.१३५)

छन्दोगाभिहिताः कुर्युः प्रातरुत्सर्गिकीं क्रियाम् । अपराह्णेऽप्युपाकर्म पुष्यहस्तर्क्षयोर्द्विजाः ॥

नियमः ११. नर्मदा कर्कस्थः सूर्यश्च

नर्मदाया उत्तरदेशे कर्कस्थे रवौ उपाकर्म निषिध्यते, दक्षिणे तु अनुज्ञायते; निर्णयसिन्धुः सिंहनियमं सामगविषयं करोति। भारताद् बहिः अयं विषयः कुलाचारस्य, न देशस्य; उपाकर्मगणनायन्त्राणि नगरानुसारम् एनं न प्रयुञ्जते।

▶ गर्गः बृहस्पतिश्च (SMP पृ.१४०; NS पृ.१४७)

कुलीरे रविसंयुक्ते उपाकुर्यात्तु दक्षिणे । नर्मदोत्तरदेशे तु कर्तव्यं सिंहयुक्तके ॥

विस्तरेण व्याख्या (शास्त्रार्थः, प्रमाणविमर्शः, पाठभेदाः, सिद्धान्तिनो निर्णयाः, ग्रन्थसूची च): English · हिंदी।

© प्रतिलिप्यधिकारः (Copyright Notice)

© २००६–2026 पण्डित-महेश-शास्त्री mypanchang.com च। सर्वेऽधिकाराः सुरक्षिताः। अस्य लेखस्य पाठः, अनुवादाः, सङ्कलनं, विन्यासः, सारण्यः, निर्णयाश्च प्रतिलिप्यधिकारेण रक्षिताः। लेखकस्य पूर्वलिखितानुमतिं विना अस्य कोऽपि भागः मुद्रिते वैद्युते वा केनापि माध्यमेन न प्रतिलेख्यः, न पुनःप्रकाश्यः, नानुवाद्यः, न परिवर्त्यः, न वितरणीयः। अनधिकृतप्रतिलिपौ विधिसम्मता कार्यवाही भविष्यति।

© 2006–2026 Pundit Mahesh Shastriji and mypanchang.com. All rights reserved. This article, including its text, translations, compilation, arrangement, tables and rulings, is protected by copyright. No part of it may be copied, reproduced, republished, translated, adapted, or distributed in any form or medium, printed or electronic, without the prior written permission of the author. Unauthorized copying will be pursued with legal action.

Explore today's Panchang, festivals, muhurtha and more

🕉 Open Panchang Chat
Select Language
Loading…